text
stringlengths
0
31.6M
metadata
dict
चन्द्रगुप्तमौर्यः एक: महान् सम्राट् आसीत्‌। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्योक्त्या सकलं भारतवर्षम् अजयत्। सः शाक्यकुले क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिम् विजित्य तक्षशीलायाम् अभिषिक्तः। अतः सः भारतस्य एकीकर्ता इति मन्यते। तस्य शासनात् प्राक् पश्चिमोत्तरभारते चत्वारि लघुराज्...
{ "source": "wikipedia" }
विद्यानाथः एकः संस्कृतस्य अलङ्कारिकः विद्यते । एतस्य कालांशः क्रिस्तशक 14 शताब्दः । एतेन
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः ·...
{ "source": "wikipedia" }
सुभाषितरत्नकोशः विद्याकरेणकृतः सुभाषितसंकलनम्।
{ "source": "wikipedia" }
तान्, समीक्ष्य, सः, कौन्तेयः, सर्वान्, बन्धून्, अवस्थितान् । कृपया, परया, आविष्टः विषीदन्, इदम्, अब्रवीत् ॥ परया कृपया आविष्टः सः कौन्तेयः तान् सर्वान् अवस्थितान् बन्धून् समीक्ष्य विषीदन् इदम् अब्रवीत् । अर्जुनः तत्र सम्मिलितान् सर्वान् बान्धवान् दृष्ट्वा करुणया आविष्टः अभवत् । सः अत्यन्तं विषादम् अनुभवन् इदं वाक्यम् अ...
{ "source": "wikipedia" }
भारते किञ्चनराज्यम् अस्ति पञ्जाब् । अस्मिन् राज्ये किञ्चन मण्डलम् अस्ति श्रीमुक्तसरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति श्रीमुक्तसर साहिब् नगरम्।
{ "source": "wikipedia" }
गोवाराज्यस्य क्रैस्तमन्दिराणि, आङ्ग्लशलाः च एषियाखण्डस्य क्रैस्तमतस्य प्रधानकेन्द्रं भवति । बहुकालं यावत् पोर्चुगीसानां प्रशसनयुतायां गोवायाम् ऐरोप्यशैल्याः कलायुक्तानि क्रैस्तमन्दिराणि, आङ्गेयशिक्षाकेन्द्राणि, इत्यादीनि भावनसङ्कीर्णानि निर्मितानि सन्ति । क्रि.श. 1986तमे वर्षे युनेस्कोसंस्था गोवारज्यस्य प्राचीनगोवाप्रद...
{ "source": "wikipedia" }
कन्नडस्य गौरान्वितः कविः रन्नः । कविरत्नत्रयेषु अन्यतमः । स्वग्रामः इदानीन्तनस्य बागलकोटेमण्डलस्य मुधुवोऴऴ । बागलकोटेमण्डलं कर्णाटकराज्ये अस्ति । क्रि .श 949 तमे वर्षे एतस्य जन्म अभवत् । पिता जिनवल्लभेन्द्रः माता अब्बलब्बे ,कङकणविक्रेतृणां वंशजाः । रन्नस्य जन्म रमणीयपरिसरे अभवत् ।कर्णाटकस्य दक्षिणभागस्य श्रवणबेळगोळ प्...
{ "source": "wikipedia" }
31 मई-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकैकपञ्चाशत्तमं दिनम् । लिप्-वर्षानुगुणम् एकशताधिकद्विपञ्चाशत्तमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 214 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति बळ्ळारीलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति सण्डूरुविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 95।सण्डूरुविधानसभाक्षेत्रं मण्डलदृष्ट्या बळ्ळारीमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या बळ्ळारीलोकसभाक्षेत्र...
{ "source": "wikipedia" }
{ "source": "wikipedia" }
डेनिस गाबोर, सः विख्यातः वैज्ञानिकः।
{ "source": "wikipedia" }
केनोपनिषत् प्राचीनासु दशसु उपनिषत्सु अन्यतमा । अस्यां 34 मन्त्राः विद्यन्ते । अस्याः उपनिषदः प्रमुखः विषयः भवति ब्रह्मविद्या । परब्रह्मस्वरूपः परमात्मा इन्द्रियातीतः, सः एव सर्वप्रेरकः इत्ययं विषयः समीचीनतया वर्णितः वर्तते । ब्रह्मज्ञानिनः लक्षणानि कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः सन...
{ "source": "wikipedia" }
गाम्बिया अफ्रीका-महाद्वीपे देश: अस्‍ति.
{ "source": "wikipedia" }
श्रीरामस्वामी वेङ्कटरामन् /ˈɑːəɑːɪ ɛəəɑːə/) भारतगणराज्यस्य अष्टमः राष्ट्रपतिः । भारतीयराजनीतिक्षेत्रस्य अस्थिरतायामेव श्रीरामस्वामी वेङ्कटरामन् इत्यस्य राष्ट्रपतिकालः व्यपगतः । एतावत् पर्यन्तं सः एकमात्रः राष्ट्रपतिः अस्ति, यः भारतीयगणराज्यस्य चतुर्भिः प्रधानमन्त्रिभिः सह कार्यम् अकरोत् । सः कुशलः लेखकः अपि आसीत् । तेन...
{ "source": "wikipedia" }
अभिनन्दननाथः /ˈəɪəəəɑːθəə/) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु चतुर्थः तीर्थङ्करः अस्ति । अभिनन्दननाथस्य वर्णः सुवर्णः, चिह्नं वानरः च वर्तते । बाल्यकादेव भगवान् दयालुः, प्रकृत्या विनम्रः च आसीत् । भगवान् अभिनन्दननाथः इक्ष्वाकुवंशीयः आसीत् । अभिनन्दननाथस्य 116 गणधराः आसन् । तेषु वज्रनाभः प्रथमः गणधरः आसीत् । देवलोकस्य ...
{ "source": "wikipedia" }
श्रीमान् के.एस् सुदर्शनवर्यस्य जन्म 1931 तमवर्षस्य जूनमासस्य 18 दिनाङ्के इदानीन्तनछत्तीसगढ़प्रदेशस्य रायपुरे अभवत् । एतेषां कुटुम्बीयाः मूलतः कर्णाटकीयाः । मध्यप्रदेशस्य सागरविश्वविद्यालयतः अभियान्त्रिकीं पदवीं प्राप्य स्वस्य विद्याभ्यासानन्तरं रा.स्व.सङ्घस्य प्रचारकः सन् देशसेवाम् आरब्धवान् । राष्ट्रियस्वयंसेवकसङ्घस्...
{ "source": "wikipedia" }
बिल्वः कश्चित् वृक्षविशेषः । भारते अयं अतिपवित्रः तरुः अस्ति । शिवस्य बहुप्रियं बिल्वपत्राणि इति भारतीयानां दृढः विश्वासः| धार्मिकभावनया आयुर्वेदीयप्रयोजनेन च अस्य वृक्षस्य प्रामुख्यम् अस्ति । अयं श्लोकः अस्य गरिमां सूचयति । अयं मध्यमप्रमाणेन प्ररोहति । एशियाखण्डे सर्वत्र एषः वृक्षः दृश्यते । मन्दिराणां पुरतः उद्यानेषु...
{ "source": "wikipedia" }
पुत्राः - जयकृष्णः, सायिकृष्णः, हरिकृष्णः, मोहनकृष्णः, बालकृष्णः, रामकृष्णः, जयशङ्करकृष्णः, अथवा नन्दमूरि तारक रामारावः आन्ध्रप्रदेशराज्यस्य सुप्रसिद्धः नायकः । .. , इति नाम्ना सुप्रसिद्धः। तेलुगु गृहस्थानाम् सः अन्न गारु उपाधिनाम्ना अपि प्रसिद्धः। सः अनेक तेलुगु अथवा तमिऴ् चलच्चित्राणाम् अभिनेता आसीत्। चलच्चित्रसीम...
{ "source": "wikipedia" }
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति एटामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति एटानगरम् ।
{ "source": "wikipedia" }
षोडशे वर्षे केशान्तसंस्कारः सम्पादनीयः । संस्कारोऽयं ब्रह्मचर्यस्य समप्तिमेव सूचयति । अस्मिन् संस्कारे ब्रह्मचारी केशानां श्मश्रूणां च क्षौरं करोति । अवसरेऽस्मिन् आचार्याय गोदानं क्रियते । नापितायापि उपहारः प्रदीयते ।
{ "source": "wikipedia" }
कस्तूरबा गान्धी /ˈəːəɑː/) महात्मनः अर्धम् अङ्गम् । भारतीयस्वतन्त्रतासङ्ग्रामे तस्याः महत् योगदानं वर्तते । स्वास्थ्यस्य विचारमपि अकृत्वा सत्याग्रहान्दोलनाय स्वयोगदानम् अयच्छत् सा । उन्नतपर्वतस्य समीपस्थानि लघुशिखराणि यथा स्वस्य औन्नत्यं सिद्धं कर्तुं न शक्नुवन्ति, तथैव महात्मनः विशालव्यक्तित्वस्य छायायां कस्तूरबा स्वप्...
{ "source": "wikipedia" }
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति कानपुरनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कानपुरम्। कानपुर उत्तरप्रदेशस्य औद्यमिकराजधानी अस्ति । कानपुरनगरमण्डलस्य, कानपुरदेहात्मण्डलस्य, कानपुरविभागस्य च निर्वाहककेन्द्रमस्ति इदं नगरम् । भारतस्य जनपूर्णराज्येषु एकादशे स्थाने व...
{ "source": "wikipedia" }
मुम्बै इण्डियन्स् गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः मुम्बै नगरस्य प्रातिनिध्यं वहति । हर्भजनसिंहः एतस्य गणस्य नायकः । सचिनतेण्डुलकरः एतस्य गणस्य अत्युत्तमक्रीडालुः वर्तते ।
{ "source": "wikipedia" }
प्रतापगढमण्डलं राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति प्रतापगढनामकं नगरम् । प्रतापगढमण्डलस्य विस्तारः 4117.36 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे अलवरमण्डलं, दौसामण्डलं च, पश्चिमे अजमेरमण्डलम्, उत्तरे सीकरमण्डलं, दक्षिणे टोङ्कमण्डलम् अस्ति । अस्मिन् मण्डले 856 मिल्लीमीटर्मितः वा...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षष्ठः श्लोकः । पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुतः तथा बहूनि अदृष्टपूर्वाणि पश्य आश्चर्याणि भारत ॥ 6 ॥ भारत ! आदित्यान् वसून् रुद्रान् अश्विनौ तथा मरुतः पश्य, अदृष्टपूर्वाणि बहूनि आश्चर्याणि पश्य । अर्जुन ! द्वादशादित्यान् अष्टवसून् एकादशरुद्रान् देववैद्यौ तथ...
{ "source": "wikipedia" }
राहुल शरद द्राविड भारतीयक्रिकेट् क्रीडापटुः एषः एकस्मिन् समये समूहस्य नायकः अपि आसीत् । मूलतः एषः मध्यप्रदेशीयः किन्तु पूर्णतया कन्नडीयः । टेस्ट्-क्रिकेट्मध्ये दशसहस्रात् अपि अधिक-रन् कृतवत्सु एषः तृतीयः भारतीयः । सचिन् तेण्डूल्कर, सुनिलगवास्कर च अन्यतमौ । 2007 तमस्य वर्षस्य फेब्रवरी-मासस्य 24 तमे दिनाङ्के प्रचलितायाम्...
{ "source": "wikipedia" }
सन्तूर् हिन्दुस्तानीशास्त्रीयसङ्गीतस्य प्रसिद्धं तन्त्रिवाद्यम् । "सन्तूर्" इति पदं "पर्षियन् भाषातः" आगतम् । संस्कृते अस्य "शततन्त्री वीणा" इति नाम । एशिया तथा युरोपखण्डेषु यात्रिकसङ्गीतज्ञैः प्रचारं कृतवन्तः । विविधेषु देशेषु विविधविन्यासेषु इदं वाद्यं दृश्यते । ईरान, ईराक् तथा तुर्कीदेशेषु 72 तन्त्रियुक्तं वाद्यं भव...
{ "source": "wikipedia" }
कन्नडभाषायां समुपलब्धेषु शिलाशासनेषु हल्मिडिशासनमेव प्राचीनतमं शासनम् । प्रथमं शासनं च इति निर्णयः एतावत्पर्यन्त मासीत् । तस्य शासनस्य कालः क्रि श 450 शतमानः । परमधुना तस्मादपि प्राचीनं पुरातनं शिला शासनमेकं कर्णाटक राज्यस्य श्रवणबेळगोळ जैनक्षेत्रस्य चन्द्रगिरिशैले समुपलब्धम् । अस्य समयः क्रि श 400 शतमानः । मैसूरुविश्व...
{ "source": "wikipedia" }
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति हावेरीलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति हानगलविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 82। हानगलविधानसभाक्षेत्रं मण्डलदृष्ट्या हावेरीमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या हावेरीलोकसभाक्षेत्रे अन्त...
{ "source": "wikipedia" }
अथ केऽन्तराया ये चित्तस्य विक्षेपाः ? के पुनस्ते कियन्तो वेति ?नवान्तरायाश्चित्तस्य विक्षेपाः । सहैते चित्तवृत्तिभिर्भवन्ति । एतेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः । तत्र व्याधिर्धातुरसकरणवैषम्यम् । स्त्यानमकर्मण्यता चित्तस्य । संशय उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति । प्रमादः समाधिसाधनानामभावनम् । ...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य एकादशः श्लोकः । तेषाम् एव अनुकम्पार्थम् अहम् अज्ञानजं तमः नाशयामि आत्मभावस्थः ज्ञानदीपेन भास्वता ॥ 11 ॥ आत्मभावस्थः अहं तेषाम् एव अनुकम्पार्थं भास्वता ज्ञानदीपेन अज्ञानजं तमः नाशयामि । तादृशानां बुधानाम् अनुग्रहार्थम् अहं तेषाम् अन्तःकरणे तिन् तेषु अज्ञानेन जन्यं तमः प्रकाशमा...
{ "source": "wikipedia" }
अयम् इक्षुरसः भारते अपि पीयमनं किञ्चित् प्रसिद्धं पेयम् । एतम् इक्षुरसम् आङ्ग्लभाषायां इति वदन्ति । अयम् इक्षुरसः अपि सस्यजन्यः आहारः । अस्य इक्षुरसस्य सज्जीकरणावसरे एव अपेक्षानुसारं निम्बूकरसः, शुण्ठी, हिमम्, एला इत्यादिकं योज्यते । कदाचित् तथैव केवलम् इक्षुरसः एव पीयते । अयम् इक्षुरसः आरोग्यार्थम् अपि अत्यन्तम् उत्...
{ "source": "wikipedia" }
बेल्जियम यूरोप- महाद्वीपे देश: अस्‍ति. राजधानी - ब्रसेल्‍स जनसंख्‍या - 11 मिलियन
{ "source": "wikipedia" }
कर्णाटकराज्यं भारतस्य दक्षिणदिशि स्थितम् अस्ति । सुन्दरतायै, विकासाय च इदं राज्यं भारते प्रसिद्धम् अस्ति । राज्यमिदं “यात्रिकेभ्यः स्वर्गः” इति अपि कथ्यते । कन्नड-भाषायाः “कुरूनाडु” इति शब्देन “कर्णाटक” इति नामोत्पत्तिः जाता । तस्यार्थः भवति यत् – भव्यं, उच्चभूमिः च । 2000 वर्षप्राचीनः अस्ति अस्य राज्यस्येतिहासः । अस्य...
{ "source": "wikipedia" }
भानुदत्तेन अलङ्कारतिलकः इति ग्रन्थः लिखितः । अस्मिन् ग्रन्थे 5 परिच्छेदाः सन्ति । गद्यपद्यमिश्रितं वर्तते इदं पुस्तकम् ।
{ "source": "wikipedia" }
1232 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 ...
{ "source": "wikipedia" }
भारते ब्रिटिष् प्रशासनकाले लवणस्य करः सञ्चालितः । तं विरुध्य महात्मा गान्धिः सत्याग्रहं सञ्चालितवान् । अस्य एव लवणसत्याग्रहः अथवा दण्डीयात्रा इति कथयन्ति । ब्रिटिष् लवणकरं तिरस्कृत्य गन्धिमहात्मा स्वानुयायिभिः सह गुजरात्राज्यस्य सबरमती आश्रमतः समुद्रतटस्य दण्डी पर्यन्तं 240मैलि दूरं पादक्रमणेन अक्रामत् । तत्र गत्वा साङ...
{ "source": "wikipedia" }
रुद्र-हृदय-उपनिषत् कृष्णयजुर्वेदीया उपनिषत् ।
{ "source": "wikipedia" }
तडियाण्डमोल्पर्वतः कर्णाटकस्य कोडगुमण्डले विद्यमानः अत्युन्नतः गिरिः । कोडवभाषाया तडियण्डमोल् इत्युक्ते उन्नतः पर्वतः इत्येव अर्थः । पश्चिमपर्वतस्य शृङ्खलायाम् एव एषः अन्तर्गच्छति । अस्य औन्नत्यं सामन्यतः 1748 मी. अस्ति । चरणप्रियाणामपि एतत् स्थानं प्रियतमं भवति । विराजपेटेप्रदेशतः 30कि.मी.दूरे अस्ति । पर्वतमस्तके शाद्...
{ "source": "wikipedia" }
जयदेव आचार्यः कश्चन संस्कृतस्य आलङ्कारिकः वर्तते । तस्य पिता जीवदेव आचार्यः । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन चन्द्रालोकः इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।
{ "source": "wikipedia" }
1871 तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।
{ "source": "wikipedia" }
केवलं प्रादेशिक लीग्-निमित्तं गणना कृता तथा च दिनाङ्कानुसारं संशोधितमस्ति 21:44, 18 2014 । फेडेरिको माकेडा पाद्कंदुकस्य व्यवसायिकः क्रिडकः अस्ति |
{ "source": "wikipedia" }
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति बिजनौरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बिजनौरनगरम् ।
{ "source": "wikipedia" }
विख्यात व्यक्तिः श्रेणीःजीवनी
{ "source": "wikipedia" }
समाजशास्त्रज्ञाः अपि बहु वर्षेभ्यः महिलानां स्थिति-गतिः, स्थानमानं सर्वं निर्णयं कृतवन्तः। अपि तु महिला समस्याः, महिलानां स्थानमाने व्यत्यासं इत्यादीनामपि निर्णयं कृतवन्तः एव आसन्। भारतीय इतिहासेपि महिलानं स्थानमानेषु व्यत्यासः भवति। इतिहासे महिलानं स्थितिः पञ्च दशासु द्रष्टुं शक्यते। ते - ऋग्वेदकाले महिलाः स्वातन्त्रा...
{ "source": "wikipedia" }
भारतस्य प्रतिवेशिदेशं पर्षियादेशं वशीकृतवन्तः अरब्-तुर्काः सम्पद्भरितं भारतम् अपि वशीकर्तुं योजनाम् अकुर्वन् । तदानीन्तनकाले वज्राणां खनिः केवलं भारते एव आसीत् । उत्तरभारतस्य राजानां विरोधे सति अपि भारते राज्यस्थापने यशस्विनः अभवन् तुर्काः । तुर्काणाम् आगमनात् पूर्वम् एव यवनवणिजः दक्षिणभारतस्य समुद्रतीरप्रदेशेषु तत्राप...
{ "source": "wikipedia" }
अन्वर् अल्-सादात् ईजिप्ट् देशस्य राष्ट्रपति आसीत्।
{ "source": "wikipedia" }
मन्दसौर इत्येतन्नगरं मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतस्य मन्दसौरमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
1660 तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् । अस्मिन् वर्षे इङ्ग्लेण्ड्-देशीयः जान् रे नामकः जीवविज्ञानी सस्याणां वर्गीकरणं विवृणोत् । • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 3...
{ "source": "wikipedia" }
17 शतके एषा तञ्जावूरुनगरे जाता । राजा रघुनाथनामकः एतस्याः पतिः । ‘रघुनाथाभ्युदय’नामकम् ऐतिहासिकं काव्यं रचितवती अस्ति एषा । पतिं श्रीरामस्य अवतारं मत्वा काव्यं रचितवती अस्ति । स्वस्य बहुभाषाप्रावीण्यं कविताप्रागल्भ्यं च स्वग्रन्थे साभिमानं वर्णितवती अस्ति एषा । रघुनाथाभ्युदयकाव्यं न केवलं काव्यद्दष्टया, अपि तु ऐतिहासिक...
{ "source": "wikipedia" }
विष्णुपदभट्टाचार्यः पश्चिमबंगस्य चौबीसपरगनाजनपदान्तर्गतभट्टपल्ल्यामधिवसति स्म । 1964 ईसवीयाब्दस्य फरवरीमासेऽसौ दिवङ्गतः। विष्णुपदो महामहोपाध्यायस्य न्यायरत्नस्य राखालदासस्य नप्तासीत् । अस्य पिता विद्यारत्नोपाहृयो हरिचरणोऽविद्यत | विष्णुपदेन बहूनि रूपकाणि विरचितानि येषु काञ्चनकुश्चिकं, धनञ्जयपुरलायं, कपालकुण्डला, मणिकाञ...
{ "source": "wikipedia" }
अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसम्बध्योपरञ्जयन्ति । येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस्ततोऽन्यः पुनरज्ञातः । वस्तुनो ज्ञाताज्ञातस्वरूपत्वात्परिणामि चित्तम् ॥17॥ योगदर्शनम् पतञ्जलिः अष्टाङ्गयोगः अन्ताराष्ट्रिययोगदिवसः पतञ्जलियोगसूत्रम् योगसूत्राणि शृण्वन्तु आङ्ग्लानुवादेन सह योगसूत्रम् स्वामिविवेकानन्...
{ "source": "wikipedia" }
कटनीमण्डलम् /ˈəəːəəə/) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति कटनी इति नगरम् । कटनीमण्डलस्य विस्तारः 4,950 चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उमरियामण्डलं, पश्चिमे द...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य पञ्चमः श्लोकः । अपरा इयम् इतः तु अन्यां प्रकृतिं विद्धि मे पराम् जीवभूतां महाबाहो यया इदं धार्यते जगत् ॥ 5 ॥' महाबाहो ! इयम् अपरा । इतः मे जीवभूताम् अन्यां परां प्रकृतिं विद्धि, यया इदं जगत् धार्यते । महाबाहो ! अष्टधा विभक्ता इयं मम प्रकृतिः संसारबन्धनात्मिका अस्ति । अ...
{ "source": "wikipedia" }
रविमार्गे दृश्यमानेषु 27 प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते रोहिणी । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् रोहिणी भवति चतुर्थं नक्षत्रम् । आकाशः 360 डिग्रियुक्तः इति भाव्यत...
{ "source": "wikipedia" }
3 मई-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकत्रयोविंशतितमं दिनम् । लिप्-वर्षानुगुणम् एकशताधिकचतुर्विंशतितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 242 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
1129 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 •...
{ "source": "wikipedia" }
शाङ्ख्यायनारण्यकम् ऋग्वेदस्य द्वितीयमारण्यकमस्ति । एतस्मिन् कौषीतकि-उपनिषद्, संहितोपनिषद् च अन्तर्भवतः। एतस्मिन् पञ्चदशाध्यायाः सन्ति । आतृतीयाध्यायम् अत्र षष्ठाध्यायपर्यन्तं कौषीतकि-उपनिषदिति कथ्यते, तथा सप्तमाष्टमावध्यायौ संहितोपनिषदिति कथ्येते । एतद्भिन्नाध्यायेषु अारण्यकस्य मुख्याविषयाणां प्रतिपादनमस्ति । प्रथम-द्व...
{ "source": "wikipedia" }
श्रीगङ्गानगरमण्डलं राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति श्रीगङ्गानगरम् । श्रीगङ्गानगरमण्डलस्य विस्तारः 11,154 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हनुमानगढमण्डलं, पश्चिमे पाकिस्थानदेशः, उत्तरे पञ्जाबराज्यं, दक्षिणे बीकानेरमण्डलम् अस्ति । अस्मिन् मण्डले 303 मिल्लीमीटर्मितः वार्ष...
{ "source": "wikipedia" }
स्रग्धरा। यच्छन्दः म्रभ्नैर्युतम्, यानां त्रयेण युतं, मुनिषु यतियुतं भवति तदेव स्रग्धराछन्दः इत्युच्यते । अर्थात् यत्र प्रत्येकम् अपि पादे क्रमेण एकः मगणः¸ एकः रगणः, एकः भगणः, एकः नगणः, यगणत्रयं भवेत् अपि च सप्तसु अक्षरेषु यतिः भवेत् तदा स्रग्धरा ज्ञेयम् । अस्मिन् वृत्ते एकविंशत्यक्षराणि भवन्ति । ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ।ऽ...
{ "source": "wikipedia" }
अट्लाण्टिक्-महासागरः पृथिव्याः द्वितीयः वृहत्तमः महासागरः । अस्य आयतनम् अस्ति 106.4 मिलियन् वर्गकिलोमीटर् । अयं महासागरः पृथिव्याः एक-पञ्चमांशस्थलं यावत् व्यापृतः अस्ति । अट्लाण्टिक्-महासागरस्य पश्चिमदिशि उत्तर अमेरिका तथा दक्षिण अमेरिका अस्ति । पूर्वदिशि यूरोप् तथा अफ्रिका वर्तते ।
{ "source": "wikipedia" }
महेन्द्र कपूरः क्रि.श 1968तमे काले " उपकार " इति चलच्चित्रस्य "मेरे देश की धरती सोना उगले " इति बहुचर्चितगीतस्य गानार्थम् एषः सर्वश्रेष्ठनेपथ्यगायकः इति पुरस्कारं प्राप्तवान् । एतं महत्वपूर्णं पुरस्कारम् अतिरिच्य अनेन क्रि.श. 1963तमे वर्षे "गुमराह" इति चलच्चित्रस्य "चलो एक बार फिर् से अजनबी बन् जाएँ " इति गीतस्य गाना...
{ "source": "wikipedia" }
28 सितम्बर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकैकसप्ततितमं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकद्वासप्ततितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 94 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
देवः नाम काचन अगोचरा शक्तिः । भगवान् प्रभुः देवता परमात्मा इत्यादिभिः नामभिः वयं तं निर्दिशामः । एकं सत् विप्राः बहुधा वदन्ति । इति श्रुत्यनुगुणं विभुः एकः एव सः सर्वभूतेषु गूढः । सः सर्वभूतान्तरात्मा सर्वकर्माध्यक्षःसर्वभूताधिवासः भवति । सः एव शक्षी चेता केवलः निर्गुणः चा । वयं यस्याम् आकृतौ तं दृष्ट्तुमिच्छामः तदनुगु...
{ "source": "wikipedia" }
धाम्तरीमण्डलम् छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं धाम्तरी नगरम् । स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। धाम्तरीमण्डलस्य विस्तारः 2029 चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् परितः रायपुरमण्डलम्, ओडिशाराज्यम् च अस्ति । अत्र महानदी प्रवहति । 2001 जनगणनानुगुणं धाम्तरीमण्डलस्य जनसङ...
{ "source": "wikipedia" }
मैसूरुमण्डलम् कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । भारतस्य दक्खन् प्रस्थभूमौ विराजते मैसूरुमण्डलम् । कर्णाटकस्य सांस्कृतिकराजधानी इति ख्यातिः अस्य नगरस्य अस्ति । मण्डलस्य केन्द्रस्य च नाम समानम् अस्ति । अत्र अनेकाः राजप्रासादाः सन्ति अतः प्रासादनगरम् इत्यपि कथयन्ति । 6269 च.कि.मी.मिता । अस्य ईशान्यदिशि मण्ड्यमण्डल...
{ "source": "wikipedia" }
{ "source": "wikipedia" }
श्रीमती मदुरै षण्मुखवडिवु सुब्बुलक्ष्मीः कर्णाटकसङ्गीतस्य प्रसिद्धा गायिका । कर्णाटकशास्त्रीयसङ्गीतस्य लोके एम्.एस्. इत्येव ख्याता अस्ति । सुब्बुलक्ष्म्याः जन्म क्रि.श. 1916तमे वर्षे सप्टम्बर्-मासस्य 16 दिनाङ्के तमिळुनाडुराज्यस्य मदुरैपत्तने अभवत् । अल्पे वयसि एव एषा सङ्गीताध्ययनस्य आरम्भं कृतवती । अस्याः दशमे वयसि एव...
{ "source": "wikipedia" }
स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। केरलीयः महाकविः आसीत् रामपाणिवादः । तस्य जन्म माकिं क्रि. श. 1707 तमे संवत्सरे आभवत् । महोदयस्यास्य कृतयः संस्कृतम्, प्राकृतम्, मलयालम् इत्येताभिः त्रिसृभिः भाषाभिः विरचिताः सन्ति । प्रथमतया संस्कृतेन चत्वारि रूपकाणि अनेन ल...
{ "source": "wikipedia" }
भारतीयकालमाने अयं मासः चतुर्थः । एषः ग्रिष्मर्तौ एव तिष्ठति । अस्य मासस्य अन्ते वर्षाकालः प्रारभते ।तमिळुभाषायाम् अयं मासः आडि इति कथ्यते । सौरमानदिनदर्शिकायाम् आषाढमासः सूर्यस्य कर्काटकराशिं प्रति प्रवेशेन आरप्स्यते । चान्द्रमानदिनदर्शिकायाम् अयं मासः अमावास्यायाम् आरप्स्यते । वैष्णवदिनदर्शिकायां वामनः अस्य मासस्य अधि...
{ "source": "wikipedia" }
एवमुक्त्वा हृषीकेशम् ) इत्यनेन श्लोकेन सञ्जयः अर्जुनस्य योद्धोपरामस्य निर्णयं धृतराष्ट्रं श्रावयति । पूर्वस्मिन् श्लोके स्वयुद्धोपरामस्य विषये स्पष्टतां कृत्वा अर्जुनः श्रीकृष्णस्य शिष्यः अभवत् । तस्य वचनानि धृतराष्ट्रं श्रावयन् सञ्जयः अत्र अर्जुनस्य स्थितिं वर्णयति । सः कथयति यत्, हे शत्रुतापन धृतराष्ट्र ! एवम् उक्त्व...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य पञ्चदशः श्लोकः । ज्ञानयज्ञेन च अपि अन्ये यजन्तः माम् उपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ 15 ॥ अन्ये च विश्वतोमुखं मां ज्ञानयज्ञेन एकत्वेन पृथक्त्वेन बहुधा यजन्तः अपि उपासते । अन्ये एतत्सर्वं वासुदेव इति ज्ञानरूपेण यज्ञेन मां पूजयन्ति । तत्रापि केचन सर्वत्...
{ "source": "wikipedia" }
इलेनॉइस् संयुक्त राज्‍य अमेरिका देशस्‍य प्रदेश: अस्‍ति। अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्‍सास | केन्‍टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्‍स | मिशिगन | मिनेसोटा | मिसिसिपी | मिसूरी...
{ "source": "wikipedia" }
भारतगणराज्ये एकोनत्रिंशत् राज्यानि, सप्त केन्द्रशासितप्रदेशाः च सन्ति । तेषु एकोनत्रिंशत् राज्येषु, देहली-पुदुच्चेरी-केन्द्रशासितप्रदेशयोः च मुख्यमन्त्रिणः नियुक्तिः क्रियते । भारतीयसंविधानानुसारं राज्यस्तरे राज्यपालः एव मुख्यः भवति । किन्तु कार्यकर्तृत्वेन मुख्यमन्त्री एव मुख्यः । उद्धरणे दोषः : "-" नामकस्य गणस्य अङ्क...
{ "source": "wikipedia" }
मातङ्गिनी हाजरा /ˈɑːəɡːː ɑːəɑː/) भारतमात्रे प्राणाहुतिं दत्तवतीषु क्रान्तिकारिमहिलासु अन्यतमा । मातङ्गिनी हाजरा वङ्गप्रदेशीया आसीत् । पराधीने भारते वङ्गप्रदेशः क्रान्तिकारिणां राजधानीत्वेन परिगण्यते स्म । अतः तत्र आन्दोल-सभा-गुप्तगोष्ठीत्यादीनां दृश्यानि सामान्यानि आसन् । वङ्गप्रदेशस्य क्रान्तिकारिणां मुख्यस्थानत्वात् ...
{ "source": "wikipedia" }
860 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 •...
{ "source": "wikipedia" }
जनी-जाया –भार्या –दारा –वधू- पत्नीत्यादिषु पर्यायवाचिशब्देषु पत्नीशब्दस्य व्यवहारो न भवति । पत्या साकं यज्ञकर्मणि या सहधर्मिणी भागं गृह्णाति सैव पत्नीशब्दवाच्या भवति । यज्ञसाधनत्वात् फलग्रहीतृत्वाद्वा यस्याः यज्ञसंयोगो भवति सा पत्नी इत्युच्यते । पाणिनिसमये यज् जातेः यज्ञाधिकारः नासीत् तेषां भार्यायै पत्नीशब्दस्य व्यावह...
{ "source": "wikipedia" }
इयं जीरिका भारते वर्धमानः कश्चन धान्यविशेषः । विशेषरुपेण उत्तरभारते, गुजरातराज्ये पञ्जाबराज्ये च महाप्रमाणेन अस्य वर्धनं भवति । जीरिका सस्यजन्यः आहारपदार्थः । एषा जीरिका आङ्ग्लभाषायां अथवा इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति इति । भारते तु एषा जीरिका सर्वेषां गृहस्य पाकशालायां भवति एव । एषा जीरिका यथा आहारत...
{ "source": "wikipedia" }
15 फरवरी-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य षट्चत्वारिंशत्तमं दिनम् । एतस्मात् दिनात् वर्षान्ताय 319 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
ज्योतिषं वेदस्य नैजं ज्यौतिषायत्तमतं ज्यौतिष् ज्योतिषशास्त्रस्य वेदाङ्गत्वं स्वीकृतम् । अयमर्थः उक्तः अार्चज्योतिषे, यथा — 'वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः॥ तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान्॥' चतुर्णामपि वेदानां पृथक् पृथग् ज्यौतिषशास्त्रमासीत्, तेषु सामवेदस्य ज्यौतिषश...
{ "source": "wikipedia" }
131 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • ...
{ "source": "wikipedia" }
जे जे थामसन सः विख्यातः वैज्ञानिकः।
{ "source": "wikipedia" }
नृत्य सम्बद्धा: शब्दा: अध: प्रदत्ता:।
{ "source": "wikipedia" }
विधिप्रयोगसंहिता अथर्ववेदान्तर्भूता संहिता वर्तते। विधिप्रयोगसंहितायां मन्त्राणां प्रयोगः कस्यापि विशिष्टविधेः अनुष्ठानाय भवति। अस्याः अनुष्ठानस्य अवसरसे एकस्यैव मन्त्रस्य विभिन्नपदान् विभाज्य अभिनवमन्त्रस्य निर्माणं भवति। आर्षीसंहितायाः मन्त्रोऽयमस्ति - ‘ऋतुभ्यष्ट्वाऽऽर्त्तवेभ्यो, मादभ्यो संवत्सरेभ्यः ॥ घात्रे विधात्र...
{ "source": "wikipedia" }
नाटकपरिभाषा इति ग्रन्थः सिङ्गभूपालेन लिखितः । एतस्य विषये अधिकविचाराः न लभ्यन्ते ।
{ "source": "wikipedia" }
अङ्कीयभारतं भारतम् अङ्कीयक्षेत्रे प्रबलं कर्तुं काचित् परियोजना । सूचनायाः, प्रौद्योगिक्याः च उपयोगेन सार्वजनिकसेवानां सम्पूर्णतया कायाकल्पं कर्तुं, क्रमिकविकासाय च भारतसर्वकारः अङ्कीयभारतम् इति योजनाम् आरब्धवान् । अङ्कीयक्षेत्रे भारतीयसमाजः सशक्तः स्यात्, सुचनाक्षेत्रे, अर्थव्यवस्थाक्षेत्रे च अङ्कीयपद्धतेः उपयोगं कुर्...
{ "source": "wikipedia" }
श्रीनीलं सञ्जीव रेड्डि /ˈːə əʒːə ɛɪ/) भारतस्य षष्ठः राष्ट्रपतिः । कृषिप्रधानभारतस्य अनेकाः कृषकपुत्राः देशस्य नाम गौरवान्वितम् अकुर्वन् । तेषु श्रीसञ्जीवः अन्यतमः । कृषकपुत्रः सः यदा भारतस्य सर्वोत्कृष्टे राष्ट्रपतिपदे आरूढः, तदा देशे अनन्योत्साहः आसीत् । सर्वे जनाः परस्परं चर्चां कुर्वन्तः श्रीसञ्जीवस्य नाम गर्वेण वदन...
{ "source": "wikipedia" }
निर्देशाङ्कः : 33° दक्षिणदिक् 56° पश्चिमदिक् / 33°पश्चिमदिक् 56°पश्चिमदिक् / -33; -56 उरुग्वाय दक्षिण अमेरिका महाद्वीपे स्‍थित:.
{ "source": "wikipedia" }
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य पञ्चमः श्लोकः । दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता मा शुचः सम्पदं दैवीम् अभिजातः असि पाण्डव ॥ पाण्डव ! दैवी सम्पत् विमोक्षाय आसुरी निबन्धाय मता । मा शुचः । दैवीं सम्पदम् अभिजातः असि । दैवी सम्पत् संसाररूपं बन्धनं नाशयति, आसुरी तु तदेव बन्धनं जनयति । त्वं शोक...
{ "source": "wikipedia" }
अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य षड्चत्वारिंशत्तमः श्लोकः । तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन ॥ योगी तपस्विभ्यः अधिकः मतः । ज्ञानिभ्यः अपि अधिकः । कर्मिभ्यः च अधिकः । अर्जुन ! तस्मात् योगी भव । कृच्छ्रचान्द्रायणादिरूपं तपः आचरद्भ्यः अपि योगी अधिकः ...
{ "source": "wikipedia" }
दक्षिण-गारो-हिल्स्-मण्डलं मेघालयराज्ये स्थितम् एकं मण्डलम् । अस्य मण्डलस्य केन्द्रं भाघ्मारा इत्येतन्नगरम् ।
{ "source": "wikipedia" }
प्रथमः महेन्द्रवर्मा पल्लववंशे महाराजः अभवत्। सः सप्तमे शताब्दे तमिल्नाडुप्रदेशस्य उत्तरभागम् अभ्यशासत। सः कलाभ्रजितस्य सिंहविष्णोः पुत्रः आसीत्। स्वराज्यकाले चालुक्यराजा पुलकेशी पल्लवराज्यम् उपाक्रमत। पल्लवसेना वेङ्गीनगरस्य समीपे रणभूमिषु युधान् अकुर्वन्। महेन्द्रवर्मा पुल्ललूर्नगरे स्वशत्रून् जितवान्। महेन्द्रवर्मा स...
{ "source": "wikipedia" }
एषः शिग्रुः भारते वर्धमानः कश्चन शाकविशेषः । मुरुङ्गी इति अस्य नामान्तरम् । अयम् सस्यजन्यः आहारपादार्थः । एषः शिग्रुः भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । स्वस्य पर्णैः, शाखोपशाखषिन्यासैः च सुन्दरी कलाकृतिः इव दृश्यते इति कारणेन शोभाञ्जनः इति अस्य अपरं नामधेयम् । अयं ती...
{ "source": "wikipedia" }
कुम्भोत्सवः अस्माकं देशे बहु महत्त्वपूर्णः पर्व अस्ति । देशस्य चतुर्षु स्थानेषु कुम्भोत्सवाः आयोज्यन्ते - प्रयागे, हरिद्वारे, उज्जयिन्यां, नासिके च । प्रत्येकस्मिन् नगरे द्वादशवर्षाणाम् अनन्तरम् एकः पूर्णकुम्भयोगः आयाति । एवं वर्षत्रयस्य अनन्तरं क्रमशः देशस्य एकैकस्मिन् स्थाने कुम्भोत्सवः भवति । प्रत्येकस्मिन् नगरे षष्...
{ "source": "wikipedia" }
भारते निर्मीयन्ताम् /ˈɑːəɛ ɪːəɑː/) उत मेक् इन् इण्डिया इति कश्चन प्रकल्पः वर्तते । भारतसर्वकारस्य सुतरां महत्त्वपूर्णस्य प्रकल्पस्यास्य आरम्भः 2014 तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे दिनाङ्के अभवत् । समग्राभियानस्य मूलप्रेरणास्रोतः पण्डितः दीनदलायः उपाध्यायः अस्ति । भारते निर्मीयन्ताम् इत्याकारकस्य प्रकल्पस्य आ...
{ "source": "wikipedia" }
उडुपचालनक्रीडा एका उत्तेजनसहिता मनोरञ्जनक्रीडा वर्तते । उडुपचालनक्रीडा बाह्यचर्या क्रीडा वर्तते । अस्याः क्रीडायाः गणना जलक्रीडायां, साहसक्रीडायां च भवति । वळ्ळं कळि क्रीडा केरळराज्यस्य प्रसिद्धः उडुपचालनक्रीडा वर्तते । उडुपचालनक्रीडासु राफ्टिङ्ग्-क्रीडा अन्यतमा । विश्वक्रीडोत्सवे अस्याः प्रवेशो 1908 तमे वर्षे अभवत्...
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः ·...
{ "source": "wikipedia" }
सगरमाथा अञ्चलम् ) इदं नेपालदेशस्य पुर्वाञ्चलविकासक्षेत्रे अवस्थितं अञ्चलमस्ति इदं हीमगिरिभिः युक्तं च वर्तते अस्मिन् अञ्चलान्तर्गते षड्मण्डलानि सन्ति । मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली
{ "source": "wikipedia" }
{ "source": "wikipedia" }